विनियोग:
अस्य श्रीऋणमोचन महागणपति स्तोत्रस्य शुक्राचार्य ऋषिः,
अनुष्टुप्छन्दः, श्रीऋणमोचक महागणपतिर्देवता ।
मम ऋणमोचन महागणपति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
स्तोत्र
रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः।
क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्॥
दोर्भिः पाशाङ्कुशेष्टाभयधरमतुलं चन्द्रमौलिं त्रिनेत्रम्।
ध्यायेत् शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्॥
स्मरामि देवदेवेशं वक्रतुण्डं महाबलम्।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये॥१॥
एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम्।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये॥२॥
महागणपतिं देवं महासत्त्वं महाबलम्।
महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये॥३॥
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम्।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये॥४॥
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम्।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये॥५॥
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम्।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये॥६॥
धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम्।
होमधूमप्रियं देवं नमामि ऋणमुक्तये॥७॥
भालनेत्रं भालचन्द्रं पाशाङ्कुशधरं विभुम्।
चामरालङ्कृतं देवं नमामि ऋणमुक्तये॥८॥
सर्वाम्बरं सर्ववर्णं सर्वगन्धानुलेपनम्।
सर्वपुष्पैः पूज्यमानं नमामि ऋणमुक्तये॥९॥
भद्ररूपं महाशान्तं पाशाङ्कुशधरं विभुम्।
सर्वविघ्नहरं देवं नमामि ऋणमुक्तये॥१०॥
इदं त्व ऋणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः।
षण्मासाभ्यन्तरेणैव ऋणमुक्तो भविष्यति॥११॥
इदम् तु ऋण-हरम् स्तोत्रम्।
सन्ध्यायाम् यः पठेत् नरः।
षण्-मास-अभ्यन्तरेण एव।
ऋण-मुक्तः भविष्यति॥
॥ इति श्री ऋणमोचन महागणपति स्तोत्रम् सम्पूर्णम् ॥