रेणुका स्तोत्र
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
श्रीरेणुकांबायनमः ।
ॐ नमः परमानन्दे सर्वदेवमयी शुभे ।
अकारादि क्षकारान्तं मातृकामन्त्र-मालिनी ॥१॥
एकवीरे एकरूपे महारूपेऽरूपिणि ।
अव्यक्ते व्यक्तिमापन्ने गुणातीतै गुणात्मिके ॥२॥
कमले कमलाभासे हृत्सत्पद्मकर्णिके ।
नाभिचक्रस्थिते देवि कुण्डली तन्तुरूपिणि ॥३॥
वीरमाते वीरवन्द्ये योगिनि समयप्रिये ।
वेदमाते वेदगर्भे विश्वगर्भे नमोऽस्तु ते ॥४॥
रणमाते नमस्तुभ्यं नमस्त्रैलोक्यरूपिणि ।
महदादि पञ्चभूते जमदग्निप्रियाशुभे ॥५॥
यैस्तु भक्त्या स्तुता ध्याता अर्चिता त्वं शिवे ।
भो मोक्षप्रदे देवि कामेश्वरि नमोऽस्तु ते ॥६॥
नमोऽस्तु ते निरालम्बे परमानन्दविग्रहे ।
पञ्चभूतात्मिके देवि भूतभावविवर्जिते ॥७॥
महारौद्रे महाकाये सृष्टिसंहारकारिणि ।
ब्रह्माण्डगोलकाकारे विश्वरूपे नमोऽस्तु ते ॥८॥
चतुर्भुजे खड्गहस्ते महाडमरुधारिणि ।
शिरःपात्रधरे देवि एकवीरे नमोऽस्तु ते ॥९॥
नीलाम्बरे नीलवर्णे मयूरपिच्छधारिणि ।
वनभिल्लधनुर्वामे दक्षिणे बाणधारिणि ॥१०॥
रौद्रकाये महाकाये सहस्रार्जुनभञ्जिनि ।
एकं शिरः पुरा छित्त्वा रक्तपात्रे च पूरितम् ॥११॥
मृतधारां पिबन्ती त्वं रुधिरं दैत्यदेहजम् ।
रक्तवर्णे रक्तदन्ते खड्गलाङ्गलधारिणि ॥१२॥
वामहस्ते च खट्वाङ्गं डमरुं चैव दक्षिणे ।
प्रेतवाहनके देवि ऋषिपत्नी च देवते ॥१३॥
एकवीरे महारौद्रे मालिनि विश्वभैरवि ।
योगिनि योगयुक्ता च महादेवि महेश्वरि ॥१४॥
कामाक्षि भद्रकाली च हुंकारी त्रिपुरेश्वरि ।
रक्तवक्त्रे रक्तनेत्रे महात्रिपुरसुन्दरी ॥१५॥
रेणुकासूनुयोगी च भक्तानामभयङ्करि ।
भोगलक्ष्मी योगलक्ष्मी दिव्यलक्ष्मीश्च सर्वदा ॥१६॥
कालरात्रिर्महारात्रिर्मद्य-मांस-शवप्रिये ।
भक्तानां श्रीपदे देवि लोकत्रयविमोहिनि ॥१७॥
ह्रींकारी कामपीठे च ह्रींकारी च प्रबोधिका ।
श्रींकारी च श्रिया देवि सिद्धलक्ष्मीः सुभप्रदा ॥१८॥
महालक्ष्मीश्च कौमारी कौबेरी सिंहवाहिनी ।
सिंहप्रेतासने देवि रौद्री क्रूरावतारिणि ॥१९॥
दैत्यमारिणि कुमारी च रौद्रदैत्यनिपातिनि ।
त्रिनेत्रा श्वेतरूपा च सूर्यकोटिसमप्रभा ॥२०॥
खड्गिनी बाणहस्ता च आरूढा महिषवाहिनी ।
महाकुण्डलिनी साक्षात् कङ्काली भुवनेश्वरि ॥२१॥
कृत्तिवासा विष्णुरूपा हृदया देवतामयी ।
देवमारुतमाता च भक्तमाता च शङ्करि ॥२२॥
चतुर्भुजे चतुर्वक्त्रे स्वस्तिपद्मासनस्थिता ।
पञ्चवक्त्रा महागङ्गा गौरीशङ्करवल्लभा ॥२३॥
कपालिनी देवमाता कामधेनुस्त्रिगुणात्मिका ।
विद्या एका महाविद्या श्मशानप्रेतवासिनी ॥२४॥
देवत्रिगुणत्रैलोक्या जगत्त्रयविलोकिनी ।
रौद्री वेताली कङ्काली भवानी भयवल्लभा ॥२५॥
कालिका पालिनी क्रोधा मातङ्गी वेणुधारिणि ।
रुद्रस्य नाभिसंभूता रुद्रदेहार्धधारिणि ॥२६॥
जया च विजया चैव अजया अपराजिता ।
रेणुकायै नमस्तेऽस्तु सिद्धदेवि नमो नमः ॥२७॥
श्रियं देवि नमस्तेऽस्तु दीननाथे नमो नमः ।
जयत्व देवदेवत्वं सर्वदेवि नमोऽस्तु ते ॥२८॥
देवदेवस्य जननि पञ्चप्राणप्रपूरिते ।
त्वत्प्रसादाय देवेशि देवा क्रन्दन्ति विष्णवे ॥२९॥
महाबले महारौद्रे सर्वदैत्यनिपातिनि ।
आधारभूता शक्तिस्त्वं कुण्डली तन्तुरूपिणि ॥३०॥
षट्चक्रगमने देवि योगिनि दिव्यरूपिणि ।
कामिका कामरक्ता च लोकत्रयविलोकिनि ॥३१॥
महानिद्रा मद्यनिद्रा मधुकैटभभञ्जिनि ।
भद्रकाली त्रिसन्ध्या च महाकाली कपालिनि ॥३२॥
रक्षिता सर्वभूतानां दैत्यानां च क्षयङ्करि ।
शरण्ये सर्वसत्त्वानां रक्ष त्वं परमेश्वरि ॥३३॥
त्वामाराध्यते लोके तेषां राज्यं च भूतले ।
आषाढे कार्तिके चैव पूर्णायां चतुर्दश्याम् ॥३४॥
आश्विने पौषमासे च कृत्वा पूजां प्रयत्नतः ।
गन्धपुष्पैश्च नैवेद्यैस्तोषिता पञ्चभिः सह ॥३५॥
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ।
त्वमेव वरदे देवि रक्ष मां परमेश्वरि ॥३६॥
तव वामाङ्किता देवि रक्ष मां सकलेश्वरि ।
सर्वभूतोदये देवि प्रसादं कुरु मे शिवे ॥३७॥
श्रीदेव्युवाच ॥
वरं ब्रूहि महाभाग राज्यं कुरु महीतले ।
ममाराधनतः लोके भयं किञ्चिन्न विद्यते ॥३८॥
मम मार्गे च यायाति भो देवि मम सन्निधौ ।
अभार्यः लभते भार्यां निर्धनो लभते धनम् ॥३९॥
विद्यापुत्रमवाप्नोति शत्रुनाशं च विन्दति ।
अपुत्रा लभते पुत्रान् बद्धो मुच्येत बन्धनात् ॥४०॥
कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् ।
ममाराधनं नित्यं राज्यं प्राप्नोति भूतले ॥४१॥
सर्वकार्याणि सिध्यन्ति प्रसादान्मे न संशयः ।
सर्वकार्याण्यवाप्नोति दीर्घायुश्च सुखी भवेत् ॥४२॥
श्रीपरशुराम उवाच ॥
अत्र स्थानेषु भवतां अभयं कुरु सर्वदा ॥४३॥
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ।
प्रयागे पुष्करे चैव गङ्गासागरसं्गमे ॥४४॥
स्नानं च लभते नित्यं नित्यं च चरणोदकम् ।
इदं स्तोत्रं पठेन्नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥४५॥
सर्वान् कामानवाप्नोति प्राप्नोति परमं पदम् ।
इति श्रीवायुपुराणे परशुरामकृते श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥